|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.230. अध्यायः 230
Mahabharata - Shanti Parva - Chapter Topics
इन्द्रबलिसंवादः॥ 1॥ इन्द्रावमानितेन बलिना तंप्रति गर्वभञ्जकवचनोपन्यासः॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-230-0x(6166)(74467)
यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम्।
कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह॥ 12-230-1(74468)
भीष्म उवाच। 12-230-2x(6167)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
वासवस्य च संवादं बलेर्वैरोचनस्य च॥ 12-230-2(74469)
पितामहमुपागम्य प्रणिपत्य कृताञ्जलिः।
सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः॥ 12-230-3(74470)
यस्य स्म ददतो वित्तं न कदाचन हीयते।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्॥ 12-230-4(74471)
स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः।
सोऽग्निस्तपति भूतानि जलं च स भवत्युत॥ 12-230-5(74472)
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्।
स एव ह्यस्तमयते स स्म विद्योतते दिशः॥ 12-230-6(74473)
स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्॥ 12-230-7(74474)
ब्रह्मोवाच। 12-230-8x(6168)
नैतत्ते साधु मघवन्यदेनमनुपृच्छसि।
पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम्॥ 12-230-8(74475)
उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः।
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते॥ 12-230-9(74476)
शक्र उवाच। 12-230-10x(6169)
यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान्।
हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम्॥ 12-230-10(74477)
ब्रह्मोवाच। 12-230-11x(6170)
मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति।
न्यायस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया॥ 12-230-11(74478)
भीष्म उवाच। 12-230-12x(6171)
एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा।
चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः॥ 12-230-12(74479)
ततो ददर्श स बलिं खरवेषेण संवृतम्।
यथाख्यातं भगवता शून्यागारकृतालयम्॥ 12-230-13(74480)
शक्र उवाच। 12-230-14x(6172)
खरयोनिमनुप्राप्तस्तुपभक्षोऽसि दानव।
इदं ते योनिरसमा शोचस्याहो न शोचसि॥ 12-230-14(74481)
अदृष्टं वत पश्यामि द्विषतां वशमागतम्।
श्रिया विहीनं मित्रैश्च भ्रष्टैश्वर्यपराक्रमम्॥ 12-230-15(74482)
यत्तद्यानसहस्रैस्त्वं ज्ञातिभिः परिवारितः।
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन्॥ 12-230-16(74483)
त्वन्मुखाश्चैव दैतेय व्यतिष्ठंस्तव शासने।
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह॥ 12-230-17(74484)
इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि।
यदाऽतिष्ठः समुद्रस्य पूर्वकूले विलेलिखन्॥ 12-230-18(74485)
ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम्।
यत्ते सहस्रसमिता ननुतुर्देवसोषितः॥ 12-230-19(74486)
बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया।
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः॥ 12-230-20(74487)
कथमद्य तदा चैव मनस्ते दानवेश्वर।
छत्रं तवासीत्सुमहत्सौवर्णं रत्नभूषितम्॥ 12-230-21(74488)
ननृतुस्तत्र गन्धर्वाः षट्सहस्राणि सप्तचा।
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः॥ 12-230-22(74489)
यत्राददः सहस्राणि अयुतानां गवां दश।
अनन्तरं सहस्रेण तदाऽऽसीद्दैत्या का मतिः॥ 12-230-23(74490)
यदा च पृथिवीं सर्वां यजमानोऽनुपर्यगाः।
शम्याक्षेपेण विधिना तदाऽऽसीत्किंतु ते हृदि॥ 12-230-24(74491)
न ते पश्यामि भृङ्गारं न च्छत्रं व्यजनं न च।
ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप॥ 12-230-25(74492)
`भीष्म उवाच। 12-230-26x(6173)
ततः प्रहस्य स बलिर्वासवेन समीरितम्।
निशम्य मानगम्भीरं सुरराजमथाब्रवीत्॥ 12-230-26(74493)
अहो हि तव बालिश्यमिह देवगणाधिप।
अयुक्तं देवराजस्य तव कष्टमिदं वचः॥' 12-230-27(74494)
न त्वं पश्यसि भृङ्गारं न च्छन्नं व्यजनं न च।
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव॥ 12-230-28(74495)
गुहायां निहितानि त्वं मम रत्नानि पृच्छसि।
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि॥ 12-230-29(74496)
`न जानीषे भवान्सिद्धिं शुभाङ्गस्वरूपरूपिणीम्।
कालेन भविता सर्वो नात्र गच्छति वासव॥' 12-230-30(74497)
न त्वेतदनुरूपं ते यशसो वा कुलस्य च।
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि॥ 12-230-31(74498)
न हि दुःखेषु शोचन्ते न प्रहृष्यन्ति चर्द्धिषु।
कृतप्रज्ञाः ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः॥ 12-230-32(74499)
त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे।
यदाऽहमिव भावी स्यास्तदा नैवं वदिष्यसि॥ 12-230-33(74500)
`ऐश्वर्यमदमत्तो मां स त्वं किंचिन्न बुद्ध्यसे।
राज्याद्विनिपतानेन सोहं न त्वपराजितः॥' ॥ 12-230-34(74501)
इति श्रीमन्महाभारते शन्तिपर्वणि मोश्रधर्मपर्वणि त्रिंशदधिकद्विशततमोऽध्यायः॥ 230॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-230-1 भ्रष्टश्रीर्विन्दते महीम् इति ध. पाठः॥ 12-230-4 स्ववीर्यख्यापनाय बलिं स्तौति यस्येत्यादिना॥ 12-230-9 गोषु वृषभेषु। शृन्यागारप्रतिश्रयः इति ट. थ. ध. पाठः॥ 12-230-15 भ्रष्टवीर्यपराक्रमम् इति झ. पाठः॥ 12-230-17 अफुष्टयच्या कृषणंजिना धान्यप्रसृः॥ 12-230-18 विलेलिहन् इति ध. पाठः। तत्र तालुग्रस्तं जगाकुर्वशित्यर्थः॥ 12-230-24 सूक्ष्माग्रः स्थूलमूलः षट्त्रिंशदङ्गुलो दण्डः शम्या सा बलवता क्षिप्ता भातहूरे पतेतावदेकं देवप्रजनम्। एवं सर्वापि पृथिवी शम्याप्रक्षेपविभेदा। तव देवगजनानामपर्याप्ताभूदित्यर्थः। पर्यगाः परिहृत्य गतवान्॥ 12-230-25 भृङ्गारः सौवणं उदपात्रविशेषः॥ 12-230-35 विनिपतानेन विनिपतनेन॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|